________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
याश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[१.१.२]
भार्यावचनः। उत्तरस्तु शालावचनः । येषां भार्या संयोगादुत्पन्ना -
इमानि कर्मणि प्रवर्तन्ते तेषामयं ग्टहशब्दो भार्यावचनः । येषान्तु दायविभागकालेऽग्निरुत्पद्यते तेषां शालावचन: । 'भार्यादिरग्निदीयादिवी तस्मिन् ग्टह्याणि' इति गौतमः । उक्तानुकीर्तनं सम्बन्धकरणार्थं। सम्बन्धकरणे प्रयोजनं कथं माच्यः परिभाषा: प्राप्नुयुरिति । कथं वा न प्राप्नुयुः शास्त्रान्तरत्वात् । कथं शास्त्रान्तरत्वं । स्वत्रसमाप्तावाचार्यनमस्कारात् । शास्त्रान्तर एवाचार्यनमस्कार उपपद्यते । दूदं प्रतिज्ञासूत्रम् ॥ १ ॥
चयः पाकयज्ञाः ॥ २ ॥
पाकयज्ञास्त्रयस्त्रिविधा इत्यर्थः । कुतः । हुताः प्रजता: ब्रह्मण्डिताः दूत्येकस्मिन् बहुवचननिर्देशात् । यदि हि त्रिविधत्वं न स्यात् एकवचनेन निर्देशं कुर्यात् । तस्मात्रिविधत्वमिति । पाकयज्ञा श्रल्पयज्ञाः । प्रशस्तयज्ञा वा । दृष्टश्वोभयत्र पाकशब्दः । ' योऽस्मत् पाकतरः' इत्यत्राल्पत्वे पाकशब्दः । 'तं पाकेन मनसाऽपश्यं' इति 'यो मा पाकेन मनसा' इति च प्रशंसायां । तेन श्रज्यहोमेष्वपि पाकयज्ञतन्त्रं सिद्धं भवति । यदि हि पाकशब्दः पक्ती वर्तेत आज्यहोमेषु तन्त्रं न स्यात् । इष्यते च । तस्मान्न तत्र वर्तते । प्रशस्तयज्ञा इत्युक्तम् । कथं प्रशस्तत्वं । उच्यते । यस्मादेतेषु संस्कारा उच्यन्ते । तैश्च ब्राह्मण्यमवाप्यते । के पुनस्ते संस्काराः । गर्भाधानादयः । तस्मात् सर्वेषां पाकयज्ञत्वमिति यदुक्तं तत् सम्यक् ॥ २ ॥ कथं त्रिविधत्वमित्यत आह ।
For Private and Personal Use Only