________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगणेशाय नमः।
आश्वलायनीये
गृह्यसूत्रे
प्रथमोऽध्यायः।
आश्वलायनमाचार्य प्रणिपत्य जगद्गुरुम् । देवस्वामिप्रसादेन क्रियते वृत्तिरोदृशी॥
उक्तानि वैतानिकानि गृह्याणि वक्ष्यामः॥१॥
वैतानिकान्युक्तानि। अतः परं ग्टह्याणि वक्ष्यामः। वितानोनीनां विस्तार' । तत्र भवानि वैतानिकानि। बहनिसाध्यानि कर्माणीत्यर्थः। ग्टइनिमित्तोऽग्निर्सह्यः। तत्र भवानि कीपि लक्षणया ग्टह्याणीत्युच्यन्ते । ग्रहशब्दो भायर्यायां शालायाञ्च वर्तते। तथा ‘स ग्टहो ग्रहमागतः' इत्यत्र हि पूर्वी ग्टहशब्दो
For Private and Personal Use Only