________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
याश्वलायनीय
[२.१६
कमादाय बिश्वे देवा देवता इदमन्नं हविरयं ब्राह्मण आहवनीयार्थे इयं भूमिर्गयायां भोक्ता गदाधर इदमनं ब्रह्मणे दत्तं सौवर्णपाचस्थमक्षय्यवटच्छायेयं इत्युक्ता विश्वेभ्यो देवेभ्य इदमन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणञ्चाप्तः स्वाहेत्युत्सृज्येवं द्वितीयेऽपि दत्वा ये देवासोदिव्येकादशस्थेत्युपस्थायाथ पित्ये प्राचीनावीती राजते स्वधाशब्दविशेषणेन यथालिङ्गमुद्दिश्य ये चेह पितर इत्युपस्थायाथोपवीतान्नेषु मधुसर्पिवासिच्य सप्रणवव्याहृति सावित्रों मधुमतीञ्च जपित्वा मध्विति च विरुवा पित्ननुस्मृत्यापीशनं प्रदाय ब्राह्मणान् यथासुखं जुषस्वमिति भोजनायातिसृजेत् भुञ्जानान् वैश्वदेवरक्षाघ्नपित्रादीनि च श्रावयेदथ तृप्तान् ज्ञात्वा मधुमतीरक्षन्नमीमदन्तति च श्रावयित्वा सम्पन्नं दृष्ट्वा सुसम्पन्नमित्युक्ते भुक्तशेषात्सावर्णिकमन्नं पिण्डार्थ विकिरार्थञ्च पृथगुबृत्य शेषं निवेद्यानुमते गण्डूषं दत्वा तेषाचान्तेषनाचान्तेषु वा तदबशेषेण पिण्डान्निपृणीयाद्यद्यनाचान्तेषु निपृणीयादाचान्तानन्वन्न प्रकिरेदथाचान्तेषु निपरणमनुप्रकिरेनतु पूर्वनिपरणात् प्रकिरेत् ॥ १६ ॥ __ अथ पिण्डार्थमुद्दतमन्नं स्थालीपाकेन सम्मिश्रं प्राचीनावीतो सकृदाच्छिन्नास्तृतायां लेखायां विषु
For Private and Personal Use Only