________________
Shri Mahavir Jain Aradhana Kendra
२६
www.kobatirth.org
याश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[१.५]
अथाचम्य दर्भपाणिः पूर्णमुदकाञ्जलिमुद्धृत्यादित्याभिमुखः स्थित्वा प्रणवव्याहृतिपूर्वया सावित्या चिर्निवेदयन्नुत्क्षिपेद्ये पुनः पाद्मव्यपेोहं नेच्छन्ति त आचम्यैवार्घ्यमुत्क्षिपेयुरेतदेवार्घ्यनिवेदनमसावादित्यो ब्रह्मेति प्रदक्षिणं परियन् परिषिच्याप उपस्पृश्य शुचौ देशे दर्भाम्भसे क्षिते दभीनास्तीर्य व्याहतिभिरुपविश्य प्राणायामचयं कृत्वात्मानं व्याहृतिभिरभ्युक्ष्य सावित्या दैवतमनुस्मृत्याषीदिकं वा तामेतां चतुरक्षरशेो विभक्तां श्रन्तर्येजितैः षभिस्तदङ्गमन्त्रयथाङ्गमात्मनि विन्यस्यात्मानं तद्रूपं भावयेद्यथा तत्सवितुर्हृदयाय नम इति हृदये, वरेणियं शिरसे स्वाहेति शिरसि, भर्गो देव शिखायै वषडिति शिखायां स्यधीमहि कवचाय हमिति उरसि, धियो यो नो नेत्रत्रयाय वौषट् नेचललाटदेशेषु विन्यस्वाथ प्रचोदयादस्त्राय फडिति करतलयेारस्त्रं प्राच्यादिषु दशसु दिक्षु विन्यसे देषोऽङ्गन्यासः । एनमेके नेच्छन्ति, स हि विधिरवैदिक इत्यर्थमनुसन्दधानः । मन्त्रदेवतां ध्यात्वागच्छ वरदे देवीत्यावाह्य तिष्ठेन्नष्टेषु नक्षत्रेष्ठामण्डलदर्शनान्मन्त्रार्थमनुसन्दधानः, सन्धानं नेच्छन्त्येके । प्रणवव्याहृतिपूर्विकां साविचीं जपेत्, जपं चाक्षस्त्र त्रेणानामिकाया मध्यादारभ्य
For Private and Personal Use Only