________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ह्य परिशिछे।
येदों पूर्व पच्छ आपो हिष्ठेति तिस्सृभिरथाचमनं, उदकमादाय सूयश्चेति पिबेत् । सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युक्तेभ्यः पापेभ्यो रक्षन्तां यद्रात्या पापमकार्ष मनसा वाचा हस्ताभ्यां पयामदरेण शिश्या रात्रिस्तदवलुम्पतु यत्किञ्चिदुरितं मयीदमहं मामम्तयानो सूर्य ज्योतिषि जुहोमि स्वाहेत्येतत्समन्त्रमाचमनमथ पुनराचम्य मार्जयेत्यणवव्याहृतिसावित्रीभिकश आपो हिष्ठेति वक्तेन गायत्रीशिरसा चाम्भसात्मानं परिषिञ्चेदेतन्मार्जनं ॥३॥
अथ गोकर्णवत्कृतेन पाणिनोदकमादाय नासिकाग्रे धारयन् कृष्णधारपुरुषाकृतिं पाप्मानमात्मानमन्ताप्य स्थितं विचिन्त्य संयतप्राणाऽघमर्षणसूक्तं द्रुपदामचं चावर्त्य दक्षिणेन नाशाबिलेन शनैः प्राणं रेचयन् सर्वतस्तेन संहृत्य कृष्ण रेचनवम॑ना पाणिस्थ उदके पतितं ध्यात्वा तद्दकमनवेक्षमाणे वामतो भुवि तीव्राघातेन क्षिला तं पाप्मानं वजहतं सहस्रधा दलितं भावयेदेष पामव्यपाहः । एनमेके न कुर्वन्ति मार्जनेनैव तस्य व्यपाहितत्वादिति । द्रुपदादिव मुमुचान स्विन्नः साता मलादिव पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः। इतीयं द्रपदा कक पापशोधनी ॥ ४ ॥
212
For Private and Personal Use Only