________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-ग्रह्य परिशिरे।
२६
प्रदक्षिणं दशभिरङ्गलीपर्वभिवी गणयेदागच्छ वरदे देवि जप्येमे सन्निधा भव । गायन्तं बायसे यस्माहायची त्वं ततः स्मृतेत्यावाहनमन्त्रः। सवितुर्देवस्य वरणीयं तेजा ध्यायेम हि योऽस्माकं कर्मणि प्रेरयतीति मन्त्रार्थः ॥५॥
अथ देवताध्यानं । या सन्थ्योक्ता सैव मन्त्र देवता खलूपास्यते, तां सर्वदैकरूपां ध्यायेदनुसन्थ्यमन्यान्यरूपां वा, यदैकरूपामृग्यजुःसामत्रिपदा तिर्यगूलाधरदिक्षु षटकुकिं पञ्चशिरसमग्निमुखी विष्णुहृदयां ब्रह्मशिरस्कां रुद्रशिखां दण्डकमण्डल्वक्षसूबाभयाङ्कचतुर्भुजां शुभ्रवणीं शुभ्राम्बरानुलेपनसगाभरणां शरत्चन्द्रसहस्रप्रभां सर्वदेवमयीमिमां देवीं गायत्रीमेकामेव तिसृषु सन्ध्यासु ध्यायेदथ यदि भि. नरूपां तां प्रातबीलां बालादित्यमण्डलमध्यस्थां रक्तवर्णां रक्ताम्बरानुलेपनत्रगाभरणां चतुर्वक्त्रां दण्डकमण्डल्वक्षसूत्राभयाङ्कचतुर्भुजां हंसासनारूढां ब्रह्मदैवत्यामुग्वेदमुदाहरन्तीं भूलीकाधिष्ठात्री गायत्री नाम देवतां ध्यायेदथ मध्यन्दिने तां युवती युवादित्यमण्डलमध्यस्थां श्वेतवर्णां श्वेताम्बरानुलेपनसगाभरणां पञ्चवक्त्रां प्रतिवक्त्रं त्रिनेत्रां चन्द्रशेखरां त्रिशूलखङ्गखट्वाङ्गडमरुकाकचतुर्भुजां वृषभासनारूढां रुद्र
For Private and Personal Use Only