________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
याश्वलायनीये
[४. ६. ४५]
ततो बहिषः प्राज्यञ्च चशब्दात्तुषान् फलीकरणश्चानावनप्रहृत्य प्रतिधूमङ्गा प्रानयेत् ॥ ४ ३ ।।
शन्तातीयं जपन् पशूनां मध्यमियान्मध्यमियात् ॥
॥४४॥
ततः शन्तातीयं जपन् पशूनां मध्यमियागच्छेत् प्रविशेदित्यर्थः। अन्ये तु शन्तातिशब्दवन्ति सूतानि शन्तातीयशब्देनोच्यन्ते इति व्याच ख्युः। कानि तानि। इडे द्यावापृथिवी इदं हनूनमेषां उत देवा अवहितमित्येतानि शन्न इन्द्राग्नी इतीदं शन्तातोयमिति प्रसिद्धमित्युक्तमस्माभिः प्राक्। अध्यायान्तलक्षणार्थं दिर्वचनं ॥ ४४ ॥
नमः शौनकाय नमः शानकायः ॥ ४५ ॥ ॥१॥
शौनकनमस्कारः तत्प्रसादेनेदं ग्टह्यशास्त्रमस्माभिः प्रणीतं तच समाप्तमिति ज्ञापनार्थं ।
आश्वलायनकं ग्टह्यमित्यं वै विवृत्तं मया ॥ सद्भिः सारन्तु वै ग्राह्यमसारं त्यजतामिति ॥ ४५ ॥
इति चतुर्थ नवमी कण्डिका ॥ ॥
इत्याश्वलायनग्टह्यसूत्रवृत्ती नारायणीयायां चतुर्थोऽध्यायः ॥
For Private and Personal Use Only