________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. ६. ३५
गृह्यसूत्रे।
२५
अस्य कर्मण: ब्रुवाणं वक्तारञ्च नेत्यपिशब्दार्थः । तेन वकारमपि विज्ञातारमपि अध्येतारमपि उपकतारमपि न हिनस्ति रुद्रदेव इत्येवं श्रूयते ॥ ३१ ॥
नास्य प्राश्नीयात् ॥३२॥
अस्य पशः हुतशेषं न प्राश्नीयात् । अन्यत्र इच्छातः प्राश्नीयात् वा। अयं निषेध एकेषां मतेन कृतः उत्तरत्र प्राशन विधानात् ।
॥ ३२॥ नास्य ग्राममाहरेयुरभिमारुको हैष देवः प्रजा भवतीति ॥३३॥
अस्य कर्मणः सम्बन्धीनि द्रव्याणि ग्रामं नाहरेयः केचिदपि । प्रजा अभिमारुको ह एष देवो भवति । आहरणे सत्याहृतवतीः प्रजा हिनस्ति रुद्रदेवः । इति शब्दो हेतौ। तस्मान्नाहरेयुरिति ॥ ३३॥
अमात्यानन्ततः प्रतिषेधयेत् ॥३४॥
पुत्रादोन् समीपतः प्रतिषेधयेत् नात्रागन्तव्यमिति ॥ ३४ ॥
नियोगात्तु प्राश्नीयात्वस्ययन इति ॥३५॥
हुतशेषं पशोर्नियागान्नियमेन प्रानीयात् स्व स्त्ययन इति कृत्वा। अतो ज्ञायते निषेध एकीयः पक्ष इति ॥ ३५॥
2
L
2
For Private and Personal Use Only