________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પૂર
घाश्वलायनीये
[8. ६. ३१]
रयमेव वाच्य इत्यर्थः । त्रैलोक्ये यावन्तः पदार्थास्ते सर्वे रुद्रएवेत्यर्थः। एवं ब्रुवता रुद्रस्य सर्वगतत्वं दर्शितं ॥ २७ ॥
सवीः सेनाः ॥२८॥
चैलोक्ये यावन्त्यः सेनाः सन्ति ताः सर्वाः अस्यैव सेनाः नह्यन्यस्याल्पभाग्यस्य सेनाः सम्भवन्ति । अस्य तु महाभाग्यादुपपद्यन्तएव। एवं ब्रुवता राजादयो देवादयश्च रुद्र इत्युक्तं भवति । स्तुतिषु च न पुनरुक्ततादोषः॥ २८॥
सवाण्युच्छ्रयणानि ॥ २६ ॥
यावन्ति च लोके उच्छ्रयणानि उत्कृष्टानि भृतानि विद्धतया यष्टतया ध्येटतया ध्यापयित्तया दाटतया तपस्तमतया अन्येन वा तानि सर्वाण्यस्यैव अंशभूतानि। न ह्यन्यस्यो कृत्वसम्भवः । अथवा सर्वाष्णुच्छ्रयमाणानि पर्वतादीनि तान्यस्यैव तेष्वयं वसतीत्यर्थः। एवमनेकधा स्तुतवानाचार्यः॥ २८ ॥
इत्येवंविद्यजमानं प्रीणाति ॥३०॥
इतिशब्द उनपरामर्शी । उक्तेन मार्गेण यो रुद्रं एवं विदित्वा यजति लगवेन यजमानस्तमित्येवंविद्यजमानं प्रीणति रुद्रदेवः । अत्युत्टन सुखेन यजमानं संयुनतोत्यर्थः ॥ ३ ॥
नास्य वाणं च न हिनस्तीति विज्ञायते ॥३१॥
For Private and Personal Use Only