________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४. ६.१४]
गृह्यसूत्रे ।
रुद्रायेति मन्त्रेण तत उत्सृष्टो वर्धते पशुर्यावदुत्पन्नदन्ते
भवति सेचनसमर्थे वा भवति ॥ ८ ॥
२५३
तं वर्धयेत् सम्पन्नदन्तमृषभं वा ॥ १० ॥
तं पशुमेवमवश्यं वर्धयेत् ततोऽन्यतरस्यामवस्थायां कर्म कुर्या - इक्ष्यमाणं ॥ १० ॥
यज्ञियायां दिशि ॥ ११ ॥
ग्रामाद्वहिः प्राच्यामुदीच्यां वा दिशि कार्यमित्यर्थः ॥ ११ ॥ सन्दर्शने ग्रामात् ॥ १२ ॥
यत्रस्थं ग्रामो न पश्यति यत्रस्थो वा ग्रामं न पश्यति तत्र देशे कार्यं इत्यर्थः ॥ १२ ॥
ऊर्द्धमर्धराचात् । उदित इत्येके ॥ १३ ॥
अनयोरन्यतरस्मिन् काले कुर्यात् ॥ १३ ॥
वैद्यं चरित्रवन्तं ब्रह्माणमुपवेश्य सपलाशामाईशाखां यूपं निखाय व्रतत्यौ कुशरज्जू वा रशने अन्यतरया यूपं परिवीयान्यतरयार्धशिरसि पशुं बध्वा यूपे रशनायां वा नियुनक्ति यस्मै नमस्तस्मै त्वा जुष्ट नियुनज्मीति ॥ १४ ॥
For Private and Personal Use Only