________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५०
Acharya Shri Kailassagarsuri Gyanmandir
च्याम्श्वलायनीये
[४. ८.१५]
मन्त्री । मधुवाता इति तृचस्य स्थाने उपास्मै गायतेति पञ्च मधुमतोः श्रावयेत् । अक्षन्नमीमदन्तेति षष्ठीं । श्रचान्तेषु भुक्ताशयान् गोमयेनोपलिप्य तेषु प्राचीनाग्रान् दर्भानास्तीर्य्य तेषु पृषदाज्यमिश्रेषु भुक्तशेषेणैकैकस्य द्वौ द्वौ पिण्डो दद्यात्तेनैव क्रमेण मन्त्रावृत्तिरुक्ता । अन्ये तु नान्दीमुखेभ्यः पितृभ्यः स्वाहेति एवं यथालिङ्गं पिण्डानिपृणन्ति । सर्पिषि दध्यानयति एतदेवं पृषदाज्यं अनुमन्त्रणादि पुर्ववत् । अन्ये त्वनुमन्त्रणादि नेच्छन्ति । ॐ स्वधोच्यनामित्यस्य स्थाने उपसम्पन्नमिति शेषं पूर्ववत् । श्रष्टमीश्राद्धं काम्यवत्। एकोद्दिष्टे त्वेका विप्र एकमर्घ्यपात्रं न दैवं न धूपो न दीपो न स्वधाशब्दो न पिढशब्दो न नमः शब्दः तिलेोऽसीति मन्त्रस्योहः तृष्ण वा तिलावपनं श्रर्घ्यं निवेदनं तृष्ण दत्ते तत्पात्रं न्युज' करोति। भोजनार्थादन्नादुद्धृत्य घृताक्तं कृत्वा श्रमु स्वाहेति पा णिहामः । श्रमुभैशब्दस्य स्थाने प्रेतनाम वाच्यं । नाभिश्रावणं भुक्तशेषमाचेणैकं पिण्डनिपृणीयात् । तस्य गोत्रं नाम ग्टहोला निनयनमन्त्रस्योहः। अनुमन्त्रणादि सर्व समन्तकं भवति पत्नीप्राशनन्तु नास्ति । अभिरम्यतामिति विसर्जनं एवं नवश्राद्धवर्जितेषु एकोद्दिष्टेषु । नवश्राद्धेषु तु एकोद्दिष्टेषु सर्वममन्त्रकं भवति । नवश्राद्धममन्त्रकमिति वचनात् । दशाहेषु यानि श्राद्धानि तानि नवश्राद्धानि । नवश्राद्धं दशाहानीति वचनात् । यत्र यत्रास्माभिः पालिहोम उक्तः तत्र सर्वत्र भाव्यकारः पिण्डदानं नेच्छति । स्थालीपाकेन सह भुक्तशेषेण पिण्डदानञ्चोद्यते तत्र च स्थालीपाकाभावादिति । ये तु पिण्डदानमिच्छन्ति त एवमाजः । स्थालीपाकेन
For Private and Personal Use Only