SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [४.८. www.kobatirth.org 2K Acharya Shri Kailassagarsuri Gyanmandir १५] सूथे । दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो माव्यगमद्वजधेयञ्च नोऽस्त्विति ॥ उच्छेषणन्तु ततिष्ठेद्यावद्विप्रा विसर्जिताः । शुक्रशेषमात्रेण ततो ग्टहबलिं दद्यादिति धर्मे व्यवस्थित इति मनुः । श्रष्टा श्राद्धानीत्युकं । तत्रान्वष्टक्यञ्च पूर्वेद्युश्च मासि मासि चेति श्राद्धत्रयं द्वितीयेऽध्याये व्यक्तीकृतं । पार्वणञ्चानाहिताग्नेर्यतीकृतमेव । आहिताग्निस्तु पिण्डपितृयज्ञं समाप्य ततः पार्वणं क - रोति । पिढयज्ञन्तु निर्वर्त्येति मनुः । तत्र पाणिहामः । ब्राममीपे भुक्तशेषमात्रेण पिण्डदानञ्च । काम्ये च पाणिहोमः । पिण्डदानञ्चास्येव । मासिश्राद्धस्य पार्वणस्य च एककार्यत्वादन्यतरेणेवालमित्युकं । तत्र मासिश्राद्धं कृतवांश्चेत्पर्वणि केवलं पिण्डपितृयज्ञः कार्य एव । काम्यश्राद्धं कृतञ्चेत्तेनैवालं न पुनम मिश्राद्ध पार्वणश्राद्धे कार्ये । काम्यश्रुतिस्तु तिथिविशेषमपेच्य चरितार्थ न पुनरावर्त्तयितुं शक्नोति । अग्निहोत्रद्रव्यवत् । श्रभ्युदयिके तु युग्मा ब्राह्मण मूला दभीः । प्राङ्मुखोपवीती स्यात् प्रदक्षिणमुपचारो यवैस्तिलार्थे गन्धादिदानं द्विर्दिः ऋजुदर्भानासने दद्यात् । यवोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः पुष्या नान्दीमुखान् पिढनिमांलेोकान् प्रीण्याहि नः स्वाहेति यवावपनं । नान्दोमुखाः पितरः प्रीयन्तामित्यर्घ्यनिवेदनं यथालिङ्गं नान्दीमुखाः पितरः इदं वो अर्घ्यमित्यर्ध्यप्रदानं मन्त्रो यथालिङ्गं । ये कव्यवाहनाय स्वाहा । सोमाय पितृमते स्वाहेति होम For Private and Personal Use Only २४६
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy