________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२80
पाश्वलायनीये
[४. ८. १५]
प्रकीयान्नमुपवीयां स्वधोच्यतामिति विसजेत् ॥
॥ १४॥
आचमनोत्तरकालमुच्छिष्टानां समीपेषु अन्न प्रकिरेत् । अनाचान्तेषु पिण्डदानपक्षेऽपि पिण्डन्दत्वा तत उच्छिष्टानां समीपे अन्नं प्रकिरेत् । मनुरपि।
सार्ववर्णिकमन्नाद्यमानीयालाव्य वारिणा।
समुत्सृजेङ्गुक्तवतामग्रतोविकिरन् भुवि इति ॥ अधुना प्रथमं पात्रं विवृणुयात्। तत उपवीय यज्ञोपवीतो भूत्वेत्यर्थः। मनुरपि।
उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधैः ।
सव्ये प्राचोनमावीती निवोतो कण्ठसज्जन इति । ततो दक्षिण दत्वा ॐ खधोच्यतामिति ब्राह्मणान्विसृजेत् । अतिसृजेत् । अनुजानीयादुत्थापयेदित्यर्थः। ते च ॐ स्वधेति प्रत्यूचुः॥ १४ ॥
अस्तु स्वधेति वा ॥ १५॥ ॥८॥
अस्तु स्वधेति वा विसृजेत् । तथा सति ते च अस्तु स्वधेति प्रत्यूचुः।
विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः । दक्षिणन्दिशमाका सन्याचेतेमान्वरान् पिढन् ।
For Private and Personal Use Only