________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४.१०
गृह्यसूत्रे ।
मिश्रीभावः कार्यः श्रथानौ करणपक्षे । श्रग्न्यभावे तु विप्रस्य पाणावेवेोपपादयेत् । योनिः स द्विजेो विप्रैर्मन्त्रदर्शिभिरुच्यत इति हि मनुनाग्निसाम्यं दर्शितं । तत्र प्राशितेब्वाचमनं न कार्यं । अग्नितुल्यत्वदर्शनात् । प्रयोगान्तरस्य च तद्विषयस्याविधानात् । केचित्त्वङ्गष्ठ निवेशनादिप्रयोगान्तरं कुर्वन्ति तत्पक्षे आचमनं कार्यं न वेति चिन्त्यं । श्रन्नं पाणितले दत्तमित्ययं निषेधः सपिण्डीकरणएव । तस्य ददाति चोदितत्वात् । अस्य न भवति जुहोति चोदितत्वात्तच्छब्दचोदितस्यैव च तग्रहणं युक्तं तस्यैव प्रथमं सम्प्रत्ययादिति । अत्र युक्तं ज्ञात्वा कार्यं ॥ ७ ॥
अन्नमन्ने॥ ८॥
जतशेषमन्नं भोजनार्थेषु पात्रेषु निहितेष्वन्नेषु ददाति अग्निहोमे पाणिहामे च समानमिदं ॥ ८ ॥
सृष्टं दत्तमृनुकमिति ॥ ६ ॥
सृष्टं प्रभृतन्दत्तं ऋञ्जकं ऋद्धिकरणशीलं । इति शब्दोहेत्वर्थः । तस्मात्प्रभृतमन्नं देयमिति भोजनस्य पर्याप्तमात्रं न देयं । ततोऽप्यधिकं देयं यथोच्छिव्येतेत्यर्थः ॥ ८ ॥
२४५
तृप्तान् ज्ञात्वा मधुमतीः श्रावयेदशन्नमीमदन्तेति
'न्च ॥ १० ॥
For Private and Personal Use Only