________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
याश्वलायनीये
[8. ८. ११]
मधुवाता इति तिम्रो मधुमत्य इति प्रसिद्धाः। अनादिनिवृत्तेच्छाम् जात्वा ततो मधुमतीति तिस्रोऽक्षन्नित्येकां श्रावयेत् । हप्तेषु श्रावयेदित्येव वक्तव्ये ज्ञात्वेति वचनं ज्ञात्वेताः श्रावयेत् पूर्वन्तु भोजनकाले अन्याः श्रावयेदित्येवमथे। मनुनाप्युक्त ।
खाध्यायं श्रावयेत्पिश्ये धर्मशास्त्राणि चैवहि। पाख्यातानीतिहासांश्च पुराणनि खिलानि चेति ॥ १० ॥
सम्पन्नमिति पृष्ट्वा यद्यदन्नमुपयुक्तं तत्तत्स्थालीपाकेन सह पिण्डार्थमुद्धृत्य शेषं निवेदयेत् ॥ ११ ॥
अथ सम्पन्नमित्यनेन वाक्येन ब्राह्मणान् पृच्छति ते च सम्पवमिति प्रत्यूचुः । ततोयद्यदन्नमुपयुकं तस्मात् तस्मादन्नादुद्धरन्ति पिण्डा) । तत्तत्स्थालोपाकेन महकीकरोति अन्नप्रकीरणर्थञ्चार्थादस्मिन्नेव काले सर्वस्मामुतशेषादुद्धरति । ततो भुकोद्धतशेषं निवेदयेत् ब्राह्मणेभ्यः । इदं शिटं किमनेन कर्त्तव्यमिति । स्थालोपाकेन महेति नावापूर्वः स्थालीपाकश्चाद्यते। सर्वश्राद्धेष प्रसङ्गात्। अनिष्टञ्चैतत् । तेनानुवाद एवायं । तेन यत्र स्थालीपाको विहितस्तत्र तेन भुतशेषेण च पिण्डनिपरणं भवति । यत्र तु स्थालीपाकविधिनास्ति तत्र भुक्तशेषेणेव केवलेन निपरणं भवति । प्राचार्येणाटा श्राद्धान्युकानि।
अन्वटक्यञ्च पूर्वद्युमासि मामि च पार्वणं । काम्यमभ्युदयेटम्यां एकोद्दिट मथाएमं॥
For Private and Personal Use Only