________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४. ८.७]
ग्राह्यसूत्रे।
२४१
विष्टास्तेषां सर्वेषां पाणिषु जुहोति। वचनात् । मन्त्री च हो । तत्रार्थादेकैकां आहुतिं विग्टह्य विग्टह्य सर्वेषां दक्षिणपाणिषु जुहोति। मेक्षणानुप्रहरणमर्थालुतं । अन्ये तु पाणिनैव जुवति । तत्पक्षे सुतरां लप्तं । अन्ये तु प्रतिब्राह्मणं वे दे आहुती ताभ्यामेव मन्त्राभ्यां जुङ्कति । विग्रहविध्यभावादारम्भसामर्थाचेति। एवं पाणी हामः । अस्मिन् पने पिण्डनिपरणकाले ब्राह्मणानां ममोपे पिण्डनिर्वपणं भवति । उच्छिष्टमनिधी पिण्डान्दद्यादा पित्यज्ञवदिति श्रुतिः । पाणिहोमस्य विषयमत्तरत्र विस्तरेण विभावयिष्यामः । अनाहिताः पार्वणे अनौ करणमेव । न पाणिहोमः। पाणिहोमं श्रुत्या दृढयति ॥ ५ ॥
अनिमुखा वै देवाः पाणिमुखाः पितर इति हि ब्राह्मणं ॥६॥
देवानामग्निमुखत्वादग्गो होमः । पितॄणां पाणिमुखत्वात्पाणी होमो युक्त एवेत्यर्थः ॥ ६ ॥
यदि पाणिवाचान्तधन्यदन्नमनुदिशति ॥ ७॥
अर्थदयमत्र विधातुमिष्टमिति गम्यते। तत्रामौ कृत्वा भोजनेष भोजनार्थमन्यदन्नमनुदिशति ददातीत्येकोऽर्थः। यदि पाणि - होमः कृतः तदाचान्तेषु अन्यदन्नं ददातीत्यपरः। आचान्तशब्दे
2 I
For Private and Personal Use Only