________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२७
[७. ६.४]
महासूत्रे। त्याकयजेवपि भवति । पञ्चदशकाष्ठत्वे लिङ्गानुपपत्तिः । म चोहः कत्तुं शक्यः । न प्रशतावहो विद्यत इति न्यायादिति । तदयुक्त । नास्थ मन्त्रस्य स्थालोपाकः प्रकृतिः किन्तईि दर्शपूर्णमामौ तस्मादत्रास्योह एव कार्यः । अन्ये तु मन्त्रं नैवेच्छन्ति । अपि चेनपरिधीनां नानावृक्षत्वमपि दर्शपूर्णमामयोर्भगवतापस्तम्बेनातं । यत्तूतं रोहननार्थे परिधातव्या इति तदप्ययुक्त पूर्णपात्रेणैव रक्षोहननस्य छतत्वात् । न चात्र प्रणयनस्य हविःश्रपणार्थमुपपद्यते। श्राज्यहोमत्वेऽपि दहनकर्मणि प्रणयनदर्शनात्। अपः प्रणयति पापो वै रक्षोन्नो रक्षमामपहत्यै इति श्रूतेः रोहमनार्थत्वं यदुपादीयते तच्चेत् कार्यमन्येन कृतं किमिति तदुपादीयते रक्षोहननञ्च परिधिकार्य पूर्णपात्रेणैव कृतमिति न परिधय उपादेयाः । अतः सर्वत्र पञ्चदमदारक एवेन इति सिद्धं । अनेनैव चाभिप्रायेणाचार्योऽपि पार्वणे परिध्यादीनां विनियोगमनुक्तात्वात् । बझ्चानां समाचारश्च सर्वत्रैवमेव। .पारम्पर्यापदेशश्चैवमेव। अनेन तु वचनेन परिधयः अपूर्वाः सगुणा विधीयन्ते। तेनात्राप्यूर्ध्वसमिधा अनुयाजसमिच न कार्या विध्यभावात्। नन्वनिदेशप्राप्तेन पूर्णपात्रेणैव अत्र रचोहननस्य कृतत्वात् परिधिविधाननोपपद्यते इत्याशङ्का न कार्या। नत्र परिधिविधानस्थानेनैव कार्येण भाव्यमित्यत्र किचन प्रमाणमस्ति । विधिभेदात्तस्य कार्यस्थेहान्येन कृतत्वाच्च का. धान्तरं कल्पनीयमित्यलमतिविस्तरेण। श्रानडुङ्गोमयं चर्म चोपकल्पयेयुः। नवनीतञ्च अस्मानञ्च यावत्यो युवतयः स्वग्टहे तावन्ति कुमपिञ्चूलानि चोपकल्पयेयुः ॥ ४ ॥
* अशुद्धमनुमीयते ।
2 62
For Private and Personal Use Only