________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२६
आश्वलायनीये
[8. 4. 8].
श्रवणात् । वृक्षान्तरानुक्तेश्च । श्रत्र चेाग्रहणेन परिधिग्रहणे सति परिधयोऽपि शमीमया एव भवन्ति । ममया चावश्यमतिदेष्टब्यैष । इतरथा सन्नहनमात्रातिदेशेन श्ररनिमाचत्वपालाशत्वादयोऽपि गुणा न स्युरिय्यन्ते च । तर्हि सर्वसामभ्याधानं प्राप्नोतीति शङ्का म कार्य । पञ्चदशेम दारूण्यभ्यादधातीति श्रुतेः । इतरेषां च चेतावद्विनियोगः कार्यः । तत्र केचित्परिहरन्ति । गुणचोदनैवेयं वा च ज्ञापनार्थं । अन्यत्रे परिधीनान्नानावृक्षत्वं कार्यमिति । रचो हननार्थचावश्यं परिधातव्या एवेति । चशब्दः शमोमयत्वसमुच्चथार्थः । उपकल्पनसमुच्चयार्थत्वे सति सर्वत्र चशब्दं कुर्यात् । एवन्ते परिहृतवन्तः । तदयुक्तमित्यन्ये । श्रस्मद्वास्ते मग्रहणेन पञ्चदशदारुकस्य ग्रहणं दृष्टं । प्राचीनावीतीमुपसमाधाय दूमभिचार्थेति च एकविंशतिवादिनाप्युभयत्र पञ्चदशत्वमभ्युपगम्यत एव । तत्र स्वशास्वदर्शनसामान्यादिमाबर्हिषाश्च मन्नहनमित्य - चापि पञ्चदशदारुकस्यैव ग्रहणं । पञ्चदशदारुकस्य सतः सन्नदनाद्यतिदेशेन प्राप्यते । यथा शस्त्रेष्वेव त्रिकाणामभिहिङ्कार इत्यत्र शास्त्रान्तरे होत्रकशब्दस्य सप्तसु त्रिषु वा दृष्टत्वेऽपि अस्माच्छास्त्रे मुख्यवर्जितेषु दृष्ट इति कृत्वा द्वादशापि गृह्यन्ते । स्वशास्त्रदर्शनसामान्यादेवमिहापि स्वशास्त्रदर्शनसामान्यात्पञ्चदशदारुकस्य ग्रहणं । एवञ्च कृत्वा प्रकृतौ पार्वणे परिधयोनैव सम्भवन्ति । तदतिदेशादितरेष्वपि पाकयज्ञेषु नैव सम्भवन्ति । प्रकृतौ परिध्यादीनामाचार्येण विनियोगानुक्तेश्च पञ्चदशदारुकस्यैव ग्रहणं । श्रथेोच्यते । एकविंशतिधा सम्भरामीति सन्नचनमन्त्रे सङ्ख्या श्रूयते । मन्त्रश्चातिदेशा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
-