________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
2 G
Acharya Shri Kailassagarsuri Gyanmandir
[8.8]
गृह्यसूत्रे |
सर्वे केशादीन् वापयन्ति । पुनरपि स्मृतिप्राप्तं स्नानङ्कुर्युः । ततो वक्ष्यमाणान्युपकल्पयोरन् । शब्बापश्छान्दसः । उपकल्पनविधानात्पुराणानामुत्सर्गः । श्रनुकोपयोगानां यथार्थमुपयोगः कार्यः । मणि नाम जलधारणार्थे भाण्ड विशेषः । कुम्भा उकाः । श्राचमनीया नाम श्राचमनसाधना उदञ्चनकम ण्डलुप्रभृतयः । शमोसुमनोमालिनः शमीपुष्पमालिनः । मणिकादीन् स्त्रीन्नवानुपकल्पयेयुः । शमीसुमनोमालिन इति मणिकादेर्विशेषणमित्येके । कर्तृणां विशेषणमित्यन्ये । शमोमयमिध्म मुपकल्पयेयुः । प्राकृतस्यायं विकारः। शमोमय्यावरणी चोपकल्पयेत् । अरणी इत्येतावत्युच्य - माने एकेन वाक्येन द्रव्यचोदना गुणचोदना च विधातुन्न शक्यत इति कृत्वा शमीमयग्रहणं नैवाधिक्रियते । अरणी पूर्वा विधीयते । अतः पुनः शमीमयग्रहणं कृतं परिधींश्चोपकल्पयेरन् । किमर्थमिदमिति न विद्मः । द्रव्यचोदना तावन्न कार्य । दूमाबर्हिषोश्च सन्नहनमिति स्थालीपाके इध्मसन्नहनस्य दर्शपूर्णमामातिदेशोऽस्ति । इतरेषाञ्च स्थालीपाकातिदेशेोऽस्ति । पाकयज्ञानामेतत्तन्त्रमिति दर्शपूर्णमासयोश्च परिधयो विहिताः । एकविंशतिमि दारूणि भवन्तीति मन्त्रलिङ्गाच्च । एकविंशतिधासभरामीति । अथ परिधीन् परिदधाति रचसामपहत्ये इत्यर्थवादाच्च । तस्मादतिदेशादेव सिध्येयुः । शमोमयत्वसिध्यर्थमिति चेत् । तदपि न । दूस्तावच्छ मोमयोऽत्र विहितः । दर्शपूर्णमासयोश्चेपरिधीनामेकद्रव्यत्वं दृष्टं । पालाशः खादिरो वेभ इति बोधायनः । तत्र चे ग्रहणेनैकविंशतेर्ग्रहणमेकविंशतिमिमदारुणीति विधिवाक्ये
For Private and Personal Use Only
२२५