SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४.५. 8] गृह्यसूत्रे । विधिन्नस्तेन भवति पितहा चोपजायत इति शातातपः । सञ्चित्यैकाद्दिष्टं विधीयते श्राद्धमस्मै दद्युरिति । तस्मात्तस्मिन् पक्षे द्वितीयेऽहनि चतुर्थेऽहनीत्यादिकालो द्रष्टव्यः ॥ १ ॥ २२१ अलक्षणे कुम्भे पुमांसमलक्षणायां स्त्रियमयुजामिथुनाः प्रवयसः ॥ २ ॥ श्रमङ्गले कुम्भे पुमांसं सञ्चिनुयुः । स्तनरहितः कुम्भः । श्रलक्षणायां कुंभ्यां स्त्रियं मञ्चिनुयुः । स्तनवती कुम्भी । अयुज इत्यादि पूर्व - वत् ॥ २ ॥ क्षीरोदकेन शमीशाखया चिःप्रसव्यमायतनं * परिव्रजन् प्राक्षति शीतिके शीतिकावतीति ॥ ३ ॥ क्षीरमिश्रोदकेन कती प्रोक्षति मन्त्रावृत्तिरुका शेषं व्याख्यातं ॥ ३ ॥ अङ्गुष्ठापकनिष्ठिकाभ्यामेकैकमस्थ्यसंहादयन्तोऽवदभ्यः पादौ पूर्व शिर उत्तरं ॥ ४ ॥ कती प्रोक्षति सञ्चेतारोऽङ्गुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थि ग्टहोत्वाऽसंड्रादयन्तः शब्दो यथा न स्यात्तथा कुम्भेऽवदभ्यः । पादा पूर्वमवदभ्यः शिर उत्तरमवदभ्यः । उभयवचनमानुपूर्वी सिध्यर्थं ॥ ४ ॥ * व्यायतनमिति मुद्रितपु० नास्ति । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy