________________
Shri Mahavir Jain Aradhana Kendra
२२०
www.kobatirth.org
आश्वलायनी ये
Acharya Shri Kailassagarsuri Gyanmandir
[ ४. ५.१]
तथाभूतश्च जुहुयात्पञ्चमीं हृदये ततः । सिम्बातादि ततः कुर्यात्ततोऽर्थं प्राप्तमञ्चितं ॥ ततः प्रज्वालयेदग्निं प्रैषो नात्र भवेदिति । तं दद्यमानमित्यादि सर्वं पूर्ववदेव तु ॥ अस्थिसञ्चयनादेस्तु सर्वसाम्यान्न कथ्यते ॥ २७॥
इति चतुर्थे चतुर्थी कण्डिका ॥ ● ॥
सञ्चयनमूर्ध्वं दशम्याः कृष्णपक्षस्यायुजाखेकनक्षत्रे ॥ १ ॥
सञ्चीयन्तेस्थोनि येन कर्मणा तत्मञ्चयनं । कृष्णपक्षस्य दशम्या ऊर्ध्वमयुजासु तिथिषु एकादशी त्रयोदशी पञ्चदशीत्यासु । एकनक्षत्रे येन नाम्ना एकमेव नक्षत्रमभिधीयते तन्नामके नक्षत्र इत्यर्थः । श्राषाढादयं फल्गुनीदयं प्रोष्ठपदादयमिति षड्भ्योऽन्यत्र नक्षत्रे कर्तव्यमित्यर्थः । अन्तर्दशा हे श्रतीते वा दशाहे कृष्णपक्षागमनमात्रइङ्कार्यं नातीत एव दशाह इति नियमः । श्रतीते दशाह दूत्ययं पक्षः मंत्रत्सरे सपिण्डीकरणपक्षे एवेोपपद्यते द्वादशाहे सपिण्डीकरणपचे तु नोपपद्यते सपिण्डीकृतस्य प्रेतस्य पृथक्पिण्डे नियोजनस्य प्रतिषेधात् । यः सपिण्डीकृतं प्रेतं पृथक्पिण्डे नियोजयेत् ।
For Private and Personal Use Only