________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
खाश्वलायनीये
[४. ३. २४]
पिण्द्या चैके ॥ २२ ॥ एके पिण्ड्यौ च पाएओरादध्यादित्याहुः । एवं सकयोः पिएड्ययोश्च समुच्चयः ॥ २२ ॥
वृकापचार इत्येके ॥२३॥
एके वृक्काभावे पिण्ड्यावादध्यादित्याहुः अनुस्तरणी नित्या चेत् वृक्कापचारो नोपपद्यते । तस्मादनित्यति मन्यामहे । अनुस्तरण्यपचार इति वक्रव्ये वृज्ञापचार इति वचनं पिण्डयाईकाधानस्थाने श्राधानमिध्यर्थं । तेन पाण्योरिति सिद्धं । अथ किं द्रव्यौ पिण्ड्यौ। अन्नपिण्ड्यावित्येको। सनुपिण्ड्यावित्यपरे । उक्तञ्च कात्यायनेन । श्रथ यदानुस्तरणी नास्ति तदा माहवींषि तत्याने कुर्यात् । पिण्यग्रहणमुपलक्षणं । तेन वपादिसर्व पाना कार्य सक्तभिरेव निर्वर्त्तवेदित्येके । अत्र पक्षे वपास्याने अपूपः । वृक्कम्थाने पिण्डो। अन्यान्यपि तत्तदङ्गम दु शानि सन्तुभिरेव कायाणि ॥ २३॥
सवीं यथाङ्गं विनिक्षिप्य चर्मणा प्रच्छायेममग्ने चमसं माविजिबर इति प्रणीताप्रणयनमनुमन्त्र यते ॥
॥२४॥ अनुस्तरण्याचर्म पृथकृत्य सर्वामिति वचनादखण्डितामेव यथामिति प्रेतस्य यद्यदङ्गम्पादादि तस्मिंस्तस्मिन्नङ्गे पशोरपि तत्तदङ्ग
For Private and Personal Use Only