________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
याश्वलायनीये
[४. ३. १६]
समवत्तधानञ्च चमसं॥ ११ ॥ यस्मिन्नपदापनार्थं श्रवत्ता इड़ा धीयते स चमसः समवत्तधानः तञ्चोदरे योजयेत् ॥ ११ ॥
उपस्थे शम्यां ॥ १२॥ ऊोरूर्ध्वप्रदेश उपस्थः ॥ १२ ॥ अरणीमाः । उलूखलमुसले जङ्घयोः ॥ १३ ॥
यथासङ्ख्यं ॥ १३ ॥
___ पादयोः शूर्पे ॥ १४ ॥ इदमपि दिवचनं विकृत्यपेक्षं ॥ १४ ॥
च्छित्वा चैकं ॥१५॥ एकञ्चेच्छूपं च्छित्वा पादयो_जयेत् । अनिर्दिष्टानि तु पात्राएयनियतकालानि अनियतदेशानि भवन्ति ॥ १५॥
आसेचनवन्ति पृषदाज्यस्य पूरयन्ति ॥ १६ ॥ यानि पात्राण्यासेचनवन्ति विलवन्ति पृषदाज्यधारणसमर्थानीत्यर्थः। तानि पृषदाज्यस्य पूरयन्ति । बहूवचनक रनियमाथ। पूरयित्वा पूरयित्वा योजयेत् । कुतः एतत्। धर्मोत्सादने तथा दृष्त्वात् ॥ १६ ॥
For Private and Personal Use Only