________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
च्याश्वलायनी ये
[ ४.३.५]
तिमध्ये मृतश्च तेषामपि येोजनं कार्यं । विनियोगविधानसामर्थ्यादेव वैकृतानामपि ग्रावादीनां धारणं कार्यमित्याशङ्का न कार्य । 1 विधानस्य कर्ममध्ये कृतार्थत्वात् । प्राकृतानां धारणे कारणमन्यदुकं । तेन यावन्ति पात्राणि विद्यन्ते प्राकृतानि वैकृतानि च तावतां सर्वेषामेव योजनङ्कार्यं । न पुनर्विनियोगविधानसामर्थ्याद्धारणं कार्यं अन्यतो धृतानां योजनमेव विधीयत इति सिद्धं ॥ १ ॥
दक्षिणे हस्ते जुहू ॥ २ ॥
योजयेदिति सर्वत्र सम्बन्धनोयं । वरुणप्रघासादो मृतखेज्जुहद्वयमपि योजनीयं । एकवचनन्तु दशापवित्रेण ग्रहं सम्माष्टॊतिवदविवचितं ॥ २ ॥
सव्य उपभृतं ॥ ३ ॥
एकवचनं पूर्ववत् ॥ ३ ॥
दक्षिणे पार्श्व स्यं । सव्येग्निहोचवणीं ॥ ४ ॥
ययाग्निहोत्रं हयते साग्निहोत्रहवणी ॥ ४ ॥
उरसि ध्रुवां । शिरसि कपालानि । दत्सु ग्राव्णः ।
॥ ५ ॥
दन्तेषु ग्राब्णो योजयेत् सोममध्ये मृतश्चेत् । अन्यत्र तु श्रव
For Private and Personal Use Only