________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४.२.१]
गृह्यसूत्रे ।
अधिज्यं कृत्वा सञ्चितिमचित्वा संशीयीनु प्रहरेत् ।
॥ २२ ॥
॥२॥
२०५
अर्थप्राप्तं यत्प्रेतस्योपरि मञ्चयनं तस्मिन् काले मञ्चितेः प्रागधिज्यं कृत्वा धनुरुपरिज्यं कृत्वा मंशीर्य भंक्का चिपेत् । प्रेतस्योत्तरतश्चितावेवोपरि सञ्चितिस्तु उरसि होमानन्तरं कार्य । धनुः संवेशनं धनुरुपनयनं * धनुःसु प्रहरणमिति चत्रियस्य विशेषः । श्रन्यत्सर्वं त्रयाणां समानं ॥ २२ ॥
इति चतुर्थे द्वितीया कण्डिका ॥ ० ॥
अथैतानि पाचाणि येोजयेत् ॥ १ ॥
:
अथशब्दोऽस्मिन् काले कर्मान्तरास्तित्वज्ञापनार्थः । तेन हिरशकलः प्रेतस्य सप्तच्छिद्राणि शीर्षण्यान्यपिधत्ते । श्रास्यन्नासिकाद्वयं अक्षिद्वयं कर्णद्वयं इति । घृतसितांश्च तिलान् प्रेते अवकिरेत् । ततः पात्रयोजनं । एतानीति विद्यमानानि निर्दिश्यन्ते । प्राकृतानि वैकृतानि च। तत्र प्राकृतानां पात्राणां यावज्जीवं धारणमस्ति अग्निवत्सर्वकर्मशेषत्वात् । श्रग्न्याधाने उत्पन्नानि प्राकृतानि। वैकृतैौ तु वरुण घासादावुत्पन्नानां कर्मान्ते उत्सर्गः । विलधनुरनु इति का० मु० पाठः ।
For Private and Personal Use Only
·