________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
चाश्वलायनीये
[8. २.२१]
चितावेव *उपवेशेय इति लिङ्गात् एतावदर्णत्रयस्यापि समानं । ॥ १६ ॥
धनुश्च क्षत्रियाय ॥ १७॥ प्रेतः क्षत्रियश्चेद्धनुरप्युत्तरतः संवेशयन्ति ॥ १७ ॥ तामुत्थापयेहेवरः पतिस्थानीयान्तेवासी जरद्दामा वादीर्घनार्यभिजीवलोकमिति ॥ १८॥
अथ पत्नीमुत्थापयेत्कः देवरः पतिस्थानीयः स पतिस्थानीयइत्युच्यते। अनेन ज्ञायते पतिकर्टकं कर्म पुंसवनादि पत्यसम्भवे देवरः कुर्यादिति। अन्तेवासी शिय्यः । स वा । यो बहुकालं दास्यं कृत्वा वृद्धोऽभूत्स वा॥१८ ।
कती वृषले जपेत् ॥ १६ ॥ जरद्दासे उत्थापयितरि कती मन्त्रं ब्रूयात्। अन्यदोत्थापयितैव ब्रूयात् ॥ १८ ॥
धनुर्हस्तादाददाना मृतस्येति धनुः ॥ २० ॥ धनुरित्यचा धनुरुत्थापयेदपनयेदित्यर्थः । कः देवरादिः॥ २०॥
उक्तं दृषले ॥२१॥ की वृषले जपेदित्यर्थः ॥ २१॥
* काशुद्धमनुमीयते।
For Private and Personal Use Only