________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ४.२.१६]
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रे |
अथैनमन्तर्वेदीध्मचितिं चिनोति यो जानाति ॥ १४ ॥
अथशब्दः कर्मान्तरास्तित्वज्ञापनार्थः । तेन प्रणीता श्रस्मिन् काले चमसेन प्रणयेत् । श्रनुमन्त्रणदर्शनात् । अन्यत्तु मन्त्रन्नेति वक्ष्यामः । अपि चास्मिन् काले खाते हिरण्यशकलं निधाय तिलानवकीर्य तत दूध्मचितिं चिनुयादिष्टित्वात् । अग्नीनां मध्ये खाते - अभूताञ्चितिं दहनसमर्थं चिनोति कुशलो यो जानातीति कर्त्तुरनियमः । एनमिति वचनमिदानीमे मञ्चिनुयादुपरिष्टास्वार्थप्राप्तमपि कुशल * एव चिनुयादित्येवमर्थः ॥ १४ ॥
२०३
तस्मिन् बर्हिरास्तीर्य कृष्णाजिनश्चोत्तरलाम तस्मिन् प्रेतं संवेशयन्त्युत्तरेण गार्हपत्यं हृत्वाहवनीयमभिमुखशिरसं ॥ १५ ॥
कथ कर्त्ता तस्मिंश्चितो बर्हिरास्तृणाति ततः कृष्णाजिनञ्चोर्ध्वलोमास्तृणाति कर्त्तव, काप्रत्यये पूर्वकालतामात्रमेव विवक्षितं न समानकर्तृत्वमिति साधितं प्राक् । अथ तस्मिन् कृष्णाजिने उतरेण गाईपत्यं प्रेतं नीत्वा तत श्राहवनीममभिमुखशिरसं प्रेतं सम्बेशयन्ति बान्धवाः ।। १५ ।।
उत्तरत्तः तत्नों ॥ १६ ॥
ततः प्रेतस्योत्तरतः प्रेतस्य पत्नीं सम्बेशयन्ति । शाययन्तीत्यर्थः 1
* शकुन इति कयादर्शपु० शुद्ध पाठः । + अभिशिरसमिति मुद्रितपु० पाठः ।
2 D 2
For Private and Personal Use Only