SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४.२.१] गृह्यसूत्रे । १६६ दधन्यत्र सर्पिरानयन्त्येतत्पित्यं पृषदाज्यं ॥ १७ ॥ ॥ १ ॥ अत्र प्रेतकर्मणि दधनि सर्पिरानयन्ति । एतत् पृषदाज्यं भवति । तच्च *बज्ड कल्पयेत् । आसेचनवन्ति पृषदाज्यस्येत्यत्रैतत् ग्टह्णीयात्। श्रत्र ग्रहणं प्रेतकर्मणि सर्वत्रैतदेव दृषदाज्यं भवतोत्येवमर्थं । तेन निः पुरीषमेके कृत्वा पृषदाज्यस्य पूरयन्तीत्यत्रापि अस्यैव पृषदाज्यस्य ग्रहणं सिद्धं । श्रानयन्तीति बहुवचनं कर्तुरनियमार्थं । पित्र्यमिति पित्र्यकर्मसम्बन्धि एतत् पित्र्यं पृषदाज्यमित्यर्थः । एवं ब्रुवता प्रेतकर्मापि पितृकर्मेत्युक्तं भवति । तेनास्मिन् कर्मणि प्राग्दक्षिणाभिमुखत्वं कर्मणां कतृणाञ्च मिद्धं । प्राचीनावीतित्वञ्च भगवता बौधायनेनाप्युक्तं । किमु खलु प्राचीनावीतिना पितृमेधः कार्य्यः। यज्ञोपवीतिना चेति प्राचीनावीतिनेत्येव ब्रूयात् । पितृणां वा एष मेधा देवानां वा अन्ये मेधा भवन्ति । निवोतिनस्त्वेवैनं वहेयुः इति । श्रग्नेयीं दिशं प्रस्तुत्य एषा हि पितॄणां प्राची दिगिति विज्ञायते इति चोक्तं ॥ १७ ॥ इति चतुर्थे प्रथमा कण्डिका ॥ ० ॥ अथैतान्दिशमग्नीन्नयन्ति यज्ञपात्राणि च ॥ १ ॥ यस्यान्दिशि भूमिभागः खानितः तान्दिशं प्रत्यग्नीन्नयन्ति । ततो यज्ञपात्राणि च नयन्ति बान्धवाः ।। १ ।। * उपकल्पयेदिति सेो० प० पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy