________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
च्याश्वलायनीये
[४. १. १६]
यच सर्वत आपः *प्रस्यन्देरन्नेतदादहनस्य लक्षणं श्मशानस्य ॥ १४॥
यस्मिन् देशे सर्वत श्रापो गच्छन्ति । एतदादहनशमशानस्य लक्षणं । नास्थिनिधानस्य श्मशानस्य । पूर्वाणि उभयस्येत्युक्तं । सर्वतो निम्न मध्यत उच्छ्रितो यो देशः पातलक्षणयुक्तश्च भवेत् तत्र खानयेदित्यर्थः ॥ १४ ॥
केशश्मश्रुलामनखानी'त्युक्तं पुरस्तात् ॥ १५ ॥
के शमा श्रुलोमनखानोति यदुनं पुरस्तात् सुत्रस्य षष्ठाध्याये दीक्षितमरणे तदिहापि कुर्यात् इत्यर्थः । तत्रैवमुकं । मंस्थिते तोर्थेन निवृ स्यावस्थे प्रेतालङ्कारान् कुर्वन्ति केशश्मश्रलोमनखानि वापयन्ति नलदेनानुलिम्पन्ति । नलदमभियुक्तेभ्यो विज्ञेयं । निःपुरोषमेके कृत्वा पृषदाज्यस्य पूरयन्ति अहतस्य वाससः पाशतः पादमात्रमविच्छिद्य मोर्णवन्ति प्राग्दशेनाविः पादं। मूलम्पाश: । अयं दशा। प्राशिरमं प्रेतं शाययित्वा प्रेतं प्रोर्णयः । वासो अयं पादतो यथा भवेदित्यर्थः। अवच्छेदं प्रेतस्य पुत्रा अमात्याः कुर्वीरनिति । संग्रहीयुरियर्थः ॥ १५ ॥
दिगुल्फं बर्हिराज्यच्च ॥ १६ ॥ दिगरूफ प्रभृतं बर्हिराज्यञ्च उपकल्पयेदिति शेषः ॥ १६ ॥
* प्रध्वंसेरनिति प्रतीकपु. यसमीचीनपाठः । + वापयन्तीति मु० पु० अधिक पाठः । * नि ईत्यावथे इति सो० पु. पाठः । $ नल दमालां प्रतिमुवन्ति इति से० पु० अधिकपाठः ।
For Private and Personal Use Only