________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. १२. १८
ग्रह सूत्रे।
१९३
अथैनमन्वीक्षेताप्रतिरथेशास सोपणः ॥ १३॥
एनं राजानमन्वीक्षेत एतैः सूतैः। आशुशिशान इति सूक्तमप्रतिरथं । शास दसेति स्मृतं शासः । मौपर्ण सूक्तानां बहुवादिशेषमाह ॥ १३ ॥ प्रधारयन्तु मधुनो घृतस्येत्येतत् सौपणं ॥ १४॥ एतत् सूतं सौपर्ण भवति । नान्यत् ॥ १४ ॥
सवी दिशानुपरीयायात् ॥ १५ ॥ अथ राजा सर्वा दिशो रथेनानुक्रमेण* गच्छेत् ॥ २५ ॥ आदित्यमोशनसं वावस्थाय प्रयाधयेत् ॥ १६॥
यस्यां दिश्यादित्यस्तां दिशमास्थायाहनि चेत् । रात्रौ चेद्यस्यां दिशि भएकः तां दिशं परिग्टह्य योधयेद्राजा । न प्रत्यादित्यं युध्येत नापि प्रतिरुमित्यर्थः ॥ १६ ॥
उपश्वासय पृथिवीमत द्यामिति तृचेन दुन्दुभिमभिमशेत् ॥ १७॥
राजा॥१०॥
अवसृष्टा परापतेतोषून्विसर्जयेत् ॥ १८॥ .
राजा ॥१८॥
* क्रमेण इति सा० पु. पाठः । + युध्येत इति सा० पु० नास्ति ।
For Private and Personal Use Only