________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[१.१०. ८ ]
Acharya Shri Kailassagarsuri Gyanmandir
ह्यसूत्रे |
या मन्द्रेरिन्द्र हरिभिरिति च ॥ ५ ॥
एतं चोपां ब्रूयाच्छिय्यः॥ ५ ॥
अतो वृद्धेा जपति प्राणापानयेारुरुव्यचास्तया प्रपद्ये देवाय सवित्रे परिददामीत्यृचं च ॥ ६ ॥
अतो वृद्ध आचार्यौ जपत्येतौ मन्त्रौ । अतो वृद्धो जपतीति वचनात् पूर्वं शिष्योप्येता मन्त्री जपतीति ज्ञायते । ऋचञ्चे त्यामन्द्रेरित्येतामित्यर्थः ॥ ६ ॥
समाप्यों प्राक् स्वस्तीति जपित्वा महिचीणामित्यनुमन्त्र्य ॥ ७ ॥
१८७
प्रति सृजेदिति शेषः । * समाप्येति वचनमाचार्य एवों प्रागिति मन्त्र जपेदित्येवमर्थं । जपित्वा महित्रीणामवोस्थिति सुक्रेन शिव्यमनुमन्यु वत्स्यथेत्यतिस्सृजेत् ॥ ७ ॥
एवमतिसृष्टस्य न कुतश्चिद्भयं भवतीति विज्ञायते ॥ ८ ॥
प्रशंसेयं श्रुतिमूलत्वदर्शनार्थी ॥ ८ ॥
समापनवचनमिति सेो० + दर्शनाय इति सो० पु० पाठः ।
2 B 2
० पु० पाठः ।
For Private and Personal Use Only