________________
Shri Mahavir Jain Aradhana Kendra
१८६
www.kobatirth.org
वाश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
गुरवे प्रस्त्रक्ष्यमाणो नाम प्रब्रुवीत ॥ १ ॥
समावृत्तः सन् विस्रक्ष्यमाणः शिष्यः गुरोर्नाम प्रब्रूयात् देवदत्तेति । गुरवे इति चतुर्थी षष्ठ्यर्थे । यथास्यै इति ॥ १ ॥
[३.१०.४]
इदं वत्स्यामो भो इति ॥ २ ॥
तत एवं प्रब्रवीत । इदंशब्दस्य स्थाने श्राश्रमं निर्दिशेत् । देवदत्त गाईस्यं वत्स्यामो भो इति । वत्स्याम इति द्विवचनपाठे
श्रर्थेऽनुपपन्नः ॥ २ ॥
उच्चैरूर्ध्वं नाम्नः ॥ ३॥
नाम्न ऊर्ध्वं उच्चैर्ब्रूयात् । गुरुनाम तु उपांश्वेव ब्रूयादित्यर्थः ।
॥ ३ ॥
प्राणापानयोरुपांशु ॥ ४ ॥
ततः प्राणापानयोरुरुव्यचा दूत्येतं मन्त्रं उपां ब्रूयाच्छिय्यइत्यर्थः । ननु उत्तरत्र वक्ष्यत्यतो वृद्धो जपतोति तस्मादाचादृष्टावित्तस्याप्युपांश्वेव भविष्यत्यत उपांश्विति न वाच्यं । उच्यते । जपचेोदनायां उपांशुत्वमनित्यमिति ज्ञापनार्थमिदं तेन वेदारम्भणे उच्चैः प्रयोगः सिद्धः । अथ वा उच्चैरित्यधिकारनिवृत्त्यर्थमिदं । वेदारम्भणे तु उच्चे कारणमन्यदप्युक्तमेव ॥ ४ ॥
For Private and Personal Use Only