________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[२.८.२]
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रे ।
१९३
स्मृतनिन्दा च विद्या च श्रद्धा प्रज्ञा च पञ्चमी । इष्टन्दत्तमधीतञ्च कृतं सत्यं श्रुतं व्रतं । यदने सेन्द्रस्य सप्रजापतिकस्य सऋषिकस्य सऋषिराजन्यस्य स - पितृकस्य सपितृराजन्यस्य समनुष्यस्य समनुष्यराजन्यस्य साकाशस्य सातीकाशस्य सानुकाशस्य सप्रतीकाशस्य सदेवमनुष्यस्य सगन्धवीप्सरस्कस्य सहारण्यैव पशुभिग्रम्यैश्च यन्म आत्मन आत्मनि व्रतन्तन्मे सर्वव्रतमिदमहमने सर्वतो भवामि स्वाहेति ॥ १ ॥
स्मृतं च मे श्रस्मृतं च मे तन्म उभयव्रतमिति द्वादशाष्येव harat. ततो यदन इत्यादि यथासूत्रमित्येवमुपदिशन्ति । उपानहै। विस्सृज्य समिदाधानं कार्यं । तथा च गैौतमः । 'सोपानत्क आसनाभिवादननमस्कारान् वर्जयेत्' इति ॥ १ ॥
ममाग्ने वर्ष इति प्रत्यचं समिधोऽभ्यादध्यात् ॥ २ ॥
समाम्नायग्रहणस्य
अत्र खिलस्यापि ग्रहणं भवति । श्रथैतस्य समाम्नायस्येत्यत्र वितानविशेषणत्वात् 'समाम्नायस्य विताने' इति । कुतः एतत् सूत्रे खिलानां पाठात् इह च प्रतीकग्रहणात्. तस्माद्दशभिर्द्दम इति सिद्धं । प्रत्यृचमिति व्याख्यातं । श्रदध्यादिति प्रकृते पुनरादध्यादिति वचनं पूर्वस्याधिकार निवृत्त्यर्थं ।
For Private and Personal Use Only