________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रह्यसूत्र।
१७६
अथैतान्युपकल्पयीत समावय॑माने मणिं कुण्डले वस्त्रयुगं छत्रमुपानधुगं दण्ड सजमुन्मर्दनमनुलेपनमाञ्जनमुष्णीषमित्यात्मने चाचायीय च ॥१॥
उकोऽर्थः । उपकल्पयो तेतिशब्दोऽयं छान्दसः। समावर्तनं नाम संस्कारः. तेन संम्कियमाण इत्यर्थः । अर्थादेवोपकल्पने सिद्धे उपकल्पनवचनमत्रात्मने चाचार्याय च एतान्येकादश द्रव्याणि उपकल्पयेदिति विधानार्थं ॥ १ ॥
याभयान विन्दताचार्यायैव ॥२॥ यद्युभयोर्न लभेत तदाचार्यायैव केवलायोपकल्पयेत् ॥ २ ॥
समिधं त्वाहरेदपराजितायान्दिशि यन्नियस्य - क्षस्य ॥३॥
यज्ञियस्य वृक्षस्य या अपराजिता दिक् ततो ग्टहीत्वा बाहरेत्। यज्ञियस्येति वचनं होमार्थयं समिदिति ज्ञापयितुं। तेन तिष्ठन् समिधमादध्यादित्यत्र इमामादध्यादिति सिद्धं ॥ ३ ॥ - आद्रीमन्नाद्यकामः पुष्टिकामस्तेजस्कामा वा. ब्रह्मवर्चसकाम उपवातां ॥४॥
शाकामित्यर्थः ॥ ४ ॥
2A2
For Private and Personal Use Only