________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
याश्वलायनीने
[३.६.८]
एतेनेत्यन्यस्तनिवृत्त्यर्थं । क। शौनकेनोतं 'रक्षोन्नः षडाहुतिः' इति. तत्राप्यनेनैव सूक्तन होतव्यमित्येवमर्थ। ऐतरेयिभिस्तु 'ब्रह्मणाग्निः' इत्यनेन षडाहुतिराम्नातः। तच्च सूक्तं रोहलिङ्ग। तस्मात् प्राप्नुयात् तन्निवृत्त्यर्थमेतेनेतिवचनं। प्रत्यचमेव पञ्च हुत्वा खिष्टकृतं षष्ठं कुर्यात्। सूकमेवावर्त्य षडाऊतयो माभूवन्नित्येवमर्थ पादग्रहणम् ॥ ५ ॥
स्वप्नममनोनं दृष्ट्वा. अघा ना देव सवितरिति दाभ्यां. यच्च गोषु दुःस्वप्नमिति पञ्चभिरादित्यमुपतिष्ठेत॥६॥
अभं स्वप्नं दृष्ट्वा दाभ्यां पञ्चभिश्चापतिष्ठेत ॥ ६ ॥
यो मे राजन् पूज्यो वा सखा वेति वा॥७॥
अनयैव वा पूर्वाभिवा सप्तभिरिति विकल्पः ॥ ७ ॥
शुत्वा जम्मित्वाऽमनानं दृष्ट्वा पापकं गन्धमाघ्रायाक्षिस्पन्दने कर्णध्वनने च. सुचक्षा अहमक्षीभ्यां भूयासं सुवची मुखेन सुश्रुत्काभ्यां मयि दक्षक्रतू इति जपेत् ॥८॥
अमनोजं दृष्ट्वा अप्रियं प्रत्यक्षेण दृष्टुत्यर्थः। षट्सु निमित्तेस्वेतां जपेत्॥८॥
For Private and Personal Use Only