________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
धाश्वलायनीये
[३. ६.१]
र्थः। चशब्दो देवतातर्पणममुच्चयार्थः। तेन प्रजापत्याद्या अपि ताः । देवतास्तर्पयतीत्यत्र देवताग्रहणमत्रापि समुच्चयार्थं । क्रमश्च तन्त्रोक्त एव ॥ २२॥
एतत्सर्जनं ॥२३॥
॥५॥
अस्येयं संज्ञा। ततः षण्मासान षडङ्गान्यधीयोत। षण्मासानधीयीतेत्यारभ्य एवमन्ता धर्मा ग्रहणाध्ययन एवेत्याहुरेके । अन्ये त्वविशेषेणेत्याहुः ॥ २३ ॥
इति हतीये पञ्चमी कण्डिका || ०॥
अथ काम्यानां स्थाने काम्याः॥१॥
त्रेतायां या दृष्टयः पशवश्च 'आयुष्कामेश्याम्' इत्याद्याः 'वायव्यं श्वेतमालभेत भूतिकामः' इत्याद्याश्च तेषां स्थाने काम्याः पाकयज्ञाः कार्या इत्यर्थः । काम्यसेामस्थाने सोमो न कार्यः। सोमतन्त्रस्य ग्टह्येऽविधानात् । तत्र द्रव्यमाह ॥ १ ॥
For Private and Personal Use Only