________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. ५. २२]
ग्टह्य सूत्रे।
वार्षिकमित्येतदाचक्षते ॥ १६ ॥
एतदुपाकरणमित्यर्थः। प्राचक्षत इति ब्रुवन्वैदिकीयं मंज्ञा न पारिभाषिकीति दर्शयति । अन्वर्थमंज्ञेयं दर्शितं प्राक् ॥ १८ ॥
मध्यमाष्टकायामेताभ्यो देवताभ्योऽनेन हुत्वाऽपोऽभ्यवयन्ति ॥२०॥
मध्यमाष्टकाग्रहणं षण्मासान्तोपलक्षणार्थं । तेन तस्याः समीपे माध्यां पौर्णमास्यामित्यर्थः । शास्त्रान्तरे चैवं दृश्यते। ‘एताभ्यो देवताभ्यो हुत्वा सावित्र्यादिभ्य आज्यम्' इत्युक्त । अग्निमीड़ इत्यादिभ्योऽन्नेन हुत्वा स्थालीपाकग्रहणमकत्वाऽन्नेनेति यत्नेन ब्रुवन् ग्रहसिद्धमन्नं ग्राह्यमिति दर्शयति. ततः खिष्टकत्. ततो वेदारम्भणं । ततो होमशेष समाप्यापो वगाहन्त इत्यर्थः ।। २० ॥
एता एव तदेवतास्तर्पयन्ति ॥२१॥
स्नाला सावित्र्याद्या नव अग्निमोड़ इत्याद्याश्च विंशति तर्पयन्तीत्यर्थः । ऋग्देवता आदिश्य तर्पयेयुः। द्वितीयान्तं कृत्वा तर्पयामोत्येकानविंशद्वाक्यानि कृत्वा तावत्कृत्वस्तर्पयेयुः ॥ २१ ॥
आचार्यान् ऋषीन् पितॄश्च ॥ २२॥ यच्च ब्रह्म यज्ञाङ्गं तर्पणमुकं तदेतदङ्गत्वेनेदानीमपि कार्यमित्य
For Private and Personal Use Only