________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आश्वलायनीये
[३. ५. १०
समारत्तो ब्रह्मचारिकल्पेन ॥१५॥
ब्रह्मचारिधर्मरित्यर्थः । स्वाध्यायकाले ये विहिता धर्मा मधुमांसस्त्रीगमनखट्टादिवाशयनादिवर्जनादयः तैयुक्तोऽधीयीत। समावृत्तस्य मेखलादयस्तु न भवन्ति. अस्वाध्यायधर्मत्वात् ॥ १५ ॥
यथान्यायमितरे॥ १६ ॥ ब्रह्मचारिण इत्यर्थः। अस्मिन्नध्ययने ब्रह्मचारिणमपि प्रत्यर्थमिदं। दूतरथा सकावृत्तानामेवेति शङ्का स्यात् ॥ १६ ॥
जायापेयात्येके ॥ १७॥
समावृत्तो जायाङ्गच्छेदित्येके आहुः। ऋतावेव गच्छेन्नानतावित्याह ॥ १७॥
प्राजापत्यं तत् ॥ १८॥
तगमनं प्रजापतित्वसिद्ध्यर्थं कार्यम्। प्रजोत्पत्त्यर्थमित्यर्थः । तदर्थकार्य नानृतावित्यर्थः । ऋतुगमनं सर्वथा कार्यमिति तेषामभिप्रायः। अगमने दोषश्रवणात्।
'ऋतुस्नातान्तु यो भायाँ सन्निधौ नोपगच्छति।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः' [मनुष्टी० ३.४५. पराशरः ।] इति ॥१८॥
For Private and Personal Use Only