________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३.५.१४]
सूत्रे |
१६६
पश्चादः प्रागग्रेषु दर्भेषु उपविशन्ति । ततः शरावादी उदकमामिच्य तत्र दर्भान् निदध्यात्। ततो ब्रह्माञ्जलिकतो जपेत् स्वयं शिष्यैः सह मन्ति चेत् । जपतिचोदनायां ग्टह्यकर्मणि अनित्यपशुत्वमिति ज्ञापयिष्यामः । तस्मादुच्चैरेव जपेत् । अध्यापनविरोधाच्च ॥ ११ ॥
ॐ पूर्वी व्याहृतीः सावित्रीं च चिरभ्यस्य वेदादिमारभेत् ॥ १२ ॥
पूर्वमोङ्कारं । ततस्तिस्रो व्याहृतोः समस्ताः । ततः साविचीम् । एवमेतत्त्रितयन्त्रिरभ्यस्य वेदादिमग्निमीड़ इत्यारभ्य सूक्तमनुवाकं वारभेत । चशब्दः प्रणवव्याहृतीनामप्यभ्यासार्थः । अथ सर्वप्रायवित्तादि समापयेत् ॥ १२ ॥
तथोत्सर्गे ॥ १३ ॥
अत्र एतेनेत्यभावात् न कृत्स्नकर्मतिदेशः । वेदारम्भणमात्रमतिदिश्यते । एताभ्यो देवताभ्योऽनेन जत्वेति च प्रधान होमः । तेन प्राशन मार्जने उत्सर्जने न भवत इति सिद्धं ॥ १३ ॥
षण्मासानधीयीत ॥ १४ ॥
इदं वचनमुपाकृत्य नियमेन षण्मासानधीयीत नेोपरमेदित्येवमर्थं ॥ १४ ॥
Z
For Private and Personal Use Only