________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
[३. ३.३]
१६१
धिर्न घटते । अथ तत्राकृतेर्नित्यत्वादुपपद्यते तदत्राप्यविशिष्टं । सर्वकल्पेषु कल्पत्वं नामानुवृत्तन्नित्यमस्ति । गाथा नाम ऋग्विशेषाः. इन्द्रगाथादयः । 'यदिन्द्रादौ दाशराज्यः' इति इन्द्रगाथाः पञ्चर्चः । नाराशंस्यश्च ऋच एव 'इदं जना उपश्रुतं' इत्यादयः । ऋलादेव सिद्धे पुनर्वचनं फल विशेषसिद्ध्यर्थम् । इतिहामं महाभारतमाङः । यत्र सृष्टिस्थित्युत्पत्तिप्रलयाः कथ्यन्ते तत्पुराणम् । श्रनित्यचेोचं पूर्ववत् । इह हि द्रव्योत्सर्गनिमित्तं फलं दृष्टं । अतः स्वाध्यायमात्रेणापि फलमस्तीति श्रुतिमुपन्यस्यति ॥ १ ॥
योऽधीते पयआहुतिभिरेव तद्देवतास्तर्पयति. यद्यजूंषि घृताहुतिभिः यत्सामानि मध्वाहुतिभिः. यदथवीङ्गिरसः सोमाहुतिभिः यद्ब्राह्मणानि क ल्यान् गाथा नाराशंसीरितिहासपुराणानीत्यम्टताहुतिभिः ॥ २ ॥
ब्रह्मयज्ञाध्ययनेन देवतास्तृप्यन्तीत्युक्तं पितरश्च तप्यन्तीत्याह ॥२॥
यद्वचोऽधीते पयसः कुल्या अस्य पितृनवधा उपक्षरन्ति यद्यजूंषि एतस्य कुल्याः यत्सामानि मध्यः कुल्याः यदथवीङ्गिरसः सोमस्य कुल्याः यद्राक्षणानि कल्पान् गाथा नाराशंसीरितिहासपुराणनीत्यमृतस्य कुल्याः ॥ ३ ॥
Y
For Private and Personal Use Only