________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८ चाश्वलायनीये
[१. १. ४] यत् मनुष्येभ्यो ददाति 'ततोऽतिथीन् भोजयेत्' इति स्मृतिविधानेन स मनुष्ययज्ञः । अपूर्वाणं विधाने सति तद्यदग्गो जुहोतीति मिद्धवदुपदेशो नोपपद्येत. अग्नौ जुहुयादित्येवावक्ष्यत् । अथ शास्त्रान्तरसिद्धानामनुवादः. तथि स्वाध्यायविधिरिति ब्रह्म यज्ञविधानमपार्थकं स्यात्. तस्यापि तत्र सिद्धत्वात् । अथ इतन्त्रपरिग्रहार्थो ब्रह्मयजत्योपदेशो न तद्युनं, तन्त्रभेद स्यासिद्धत्वात् । पञ्चयज्ञानां हि तैत्तिरीयारण्यकं मूलं । ‘पञ्च वा एते महायज्ञाः' इत्यादि । तन्मूलत्वे च मति कथन्तन्त्रभेदसम्भवः । तस्मादैश्वदेवादय एव पञ्चयज्ञा इति सिद्धं । मनुनाप्येवमेवोक्तं पिद यज्ञवर्ज। पित्यजं त्वन्य यो तवान्।
‘एकमप्याशयेद्विपं पित्रथै पाञ्चयज्ञिके। न चैवात्राशयेत् कञ्चि वैश्वदेवं प्रति दिजं ॥ कुर्यादहरहः श्राद्धमन्नाद्यनोदकेन वा ।
पयोमूलफलैबीपि पिलभ्यः प्रीतिमावहन्' [मनु ० ३.८३। ८२] इति ॥ ३ ॥ तानेतान्यज्ञानहरहः कुर्वीत ॥४॥ ॥१॥
अस्येदं प्रयोजनं। भोजनार्थात् पाकात् प्रवृत्तिर्वैश्वदेवस्ये त्युक्तं । यस्याग्नौ न क्रियते न तोकव्यमिति निषेधात्. अत एव चानमं. स्कारार्थ. तत्र यदा परान्नं भुङ्क्ते उपवमति वा तदा संस्कार्यस्य पाकस्याभावात् संस्कारस्य कर्मणोऽप्यभावः स्यात्. तन्नित्त्यर्थमिदं । तेन पञ्च यज्ञार्थं सर्वथा पक्रव्यमेवेति सिद्ध। अनेनाभ्युपायेन वैश्वदेवमपूर्वार्थमपोति साधितं भवति । अपि च सर्वथा पाकासम्भ
For Private and Personal Use Only