________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. २. १]
ग्टह्यसूत्रे। वे पुष्यैः फलेरद्भिवी कुर्यादित्येवमर्थञ्च । उक्तञ्च 'पापन्नमपि दातव्यं श्राकाष्ठमपि जुयात् प्राचमपि ब्रह्मयजं कुर्यात्' इति ।
'न चेदुत्पद्यतेऽन्नं तु अभिरेनान् समापयेत्' इति च । अकरणे प्रायश्चित्तार्थं च। उक्तश्च बौधायनेन ।
'एतेभ्यः पञ्च यज्ञेभ्यो यद्येकोऽपि विहीयते। मनवत्याहुतिस्तत्र प्रायश्चित्तं विधीयते ।। यहं वापि व्यहं वापि प्रमादादकृतेषु तु । तिस्रस्तन्तुमतो त्वा चतस्रो वारुणीर्जपेत् ॥ दशाहं द्वादशाहं वा विनिवृत्तेषु सर्वतः ।
चतम्रो वारुणोर्डत्वा कार्यस्तन्तुमतश्चरुः' ।। इति । केचिदाशौचदिवमेध्वपि वैश्वदेवं कार्यमित्येवमर्थमिति व्याचख्यः ।
तदयुक्त. 'पञ्चयज्ञविधानन्नु न कुर्यान्तजन्मनोः' इति । निषेधात् ॥ ४ ॥
इति हतोये प्रथमा कगिडका ।। ०॥
अथ स्वाध्यायविधिः ॥१॥
उकोऽर्थः। विधिग्रहणं विधिरेव वक्ष्यते न क्रम इत्येवमय । तेन वैश्वदेवस्य पुरस्तादुपरिटादाऽध्येतव्यं न क्रमनियम इति सिद्धं ॥ १ ॥
For Private and Personal Use Only