________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १. ३]
सह्यसूत्रे।
अथातः पञ्चयज्ञाः॥१॥
उकोऽर्थः। अतःशब्दो हेत्वर्थः। यस्मादेतैर्महतो निश्रयसस्यावाप्तिस्तस्मात् पञ्चयज्ञा नाम यज्ञा वक्ष्यन्त इत्यर्थः । इमे त इत्याह ॥ १ ॥
देवयज्ञो भूतयज्ञः पितृयज्ञो ब्रह्मयजो मनुष्ययज्ञ इति ॥२॥
तेषां स्वरूपमाह ॥ २ ॥
तद्यदग्नौ जुहोति स देवयज्ञो यइलिङ्करोति स भू तयज्ञो यत् पितृभ्यो ददाति स पितृयज्ञो यत् स्वाध्यायमधीयते स ब्रह्मयज्ञो यन्मनुष्येभ्यो ददाति स मनुध्ययज्ञ इति॥३॥
वैश्वदेवे त्रयो यज्ञाः उकाः तत्र यदग्नौ जुहोति दशाहुती स देवयज्ञः। यद्वलिङ्करोति 'अथ बलिहरणम्' [रट सू० १.२.३] इति स भूतयज्ञः। यत् पिटभ्यो ददाति 'खधा पिढभ्यः' [ग्ट • स०१.२.११] इति स पित्यज्ञः। यत् स्वाध्यायमधीते 'श्रथ वाध्यायविधिः' [ग्ट ० ३.२.१] इत्यनेन विधानेन स ब्रह्मयज्ञः ।
x2
For Private and Personal Use Only