SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [२. ७.६ ] www.kobatirth.org तत्र कार्यं ॥ ४ ॥ । Acharya Shri Kailassagarsuri Gyanmandir ओषधिवनस्पतिवत् ॥ ३ ॥ मतुपेा वकारश्छान्दसः । एवंविधं यद्भूम तत्र वास्तु कार्यं ॥ ३ ॥ यस्मिन् कुशवोरिणप्रभूतं ॥ ४ ॥ १४३ कण्टकिक्षीरिणस्तु समलान् परिखायोदासयेदपामार्गः शाकस्तिल्वकः परिव्याध इति चैतानि ॥ ५ ॥ समूलान् परिखायोग्रामफेदिति वर्त्तते । अपामार्गीदीनां पुंलिङ्गवादेतानिति वक्तव्ये एतानीति नपुंसकवचन मन्यान्यप्येवन्प्रकाराणि वास्तुविद्यायां निषिद्धान्युद्वास्थानीत्येवमर्थं ॥ ५ ॥ यच सर्वत आपो मध्यं समेत्य प्रदक्षिणं शयनीयं परीत्य प्राच्यः स्यन्देरन्नप्रवदत्यस्तत्सर्वं समृद्धं ॥ ६ ॥ यस्मिन् देशे आपः सर्वाभ्यो दिग्भ्यः श्रागत्य मध्यं प्राप्य ततः प्रदक्षिणं शयनीयं परीत्य प्राङ्मुख्यो गच्छेयुः । अप्रवदत्यः न लोपः छान्दसः । अशब्दवत्य इत्यर्थः । एतल्लक्षणयुक्तं वास्तु विद्यावृत्तधनधान्यादिभिः सर्वैः समृद्धं भवति । एवं ब्रुवता एतत् प्रदशितं भवति । सर्वत उच्छ्रितां मध्यतो निम्नामोषच्च प्राक्प्रवणां भूमिं कृत्वा ग्टहं कुर्यात् । तत्र प्राच्यां दिशि गृहिणः शयनीयं गृहं For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy