________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
याश्वलायनीये
[२. ७. २]
जपेत्। त्रोण्येतानि प्रतीकानि मन्त्रसंज्ञकानि । तस्मादपांश स्युः। एतावान् नवरथे विशेषः ॥ १५ ॥
इति द्वितीये पछी कण्डिका॥०॥
अथातो वास्तुपरीक्षा ॥ १ ॥
उच्यत इति शेषः । उतोऽर्थः । अत:शब्दो हेत्वर्थः । यस्मात् ग्टहनिमित्ते सम्टद्धिव्यद्धी भवतः तस्मादास्तुपरोक्षोयत इति । यद्येवं काम्यकर्माण्यनर्थकानि नैतदेवं न्यायविदः परिहरन्ति । *तञ्चैव हि कारणं शब्दश्चेति' एवंलक्षणयक्त देशे वास्तु कार्यमित्याह ॥ १॥
अनूषरमविवदिष्णु भूम ॥२॥
भूमशब्दो भूमिवाचकः । यथा यवं न दृष्टि[नत्ति भूमेति । यत्र विवादो नास्ति तदविवदिष्णु ॥ २ ॥
*तबैवेति सं० पु. पाठः ।
For Private and Personal Use Only