________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.६.५]
ह्यसूत्रे ।
ततः पूर्वपक्षे चक्रे पाणिभ्यां नाना अभिमृशेत् मन्त्रेण । नानाग्रहयुगपदेव दक्षिणेन दक्षिणं सव्येन सव्यमभिमृशेन्न पर्यायेणेत्येवमर्थं । दूरदेशगमने त्वाद्य एवारोहणेऽयं विधिर्मत्वर्थप्राप्तेश्वारोहलेषु ॥ १ ॥
१३६
वामदेव्यमक्ष इत्यक्षाधिष्ठाने ॥ २ ॥
श्रभिमृशेदिति वर्त्तते । पाणिभ्यां युगपच्चक्रनाभी अभिमृशेत्
मन्त्रेण ॥ २ ॥
दक्षिणपूर्वाभ्यामारोहेत्. वायेोष्ट्वा वीर्येणा रा हामीन्द्रस्यैौजसाधिपत्येनेति ॥ ३ ॥
दक्षिणपादः पूर्वे ययोः तौ तथोक्तौ एवम्भूताभ्यामारोहेमन्त्रेण ॥ ३ ॥
रश्मीन् संम्मृशेदरश्मिकान् वा दण्डेन. ब्रह्मणो वस्तेजसा संगृह्णामि सत्येन वस्तेजसा संगृह्णामीति ॥ ४ ॥
रश्मयः प्रग्रहास्तान् स्पृशेत् । अथ यद्यश्वा श्ररश्मिकाः स्युस्तानेव दण्डेन स्पृशेत् । मन्तस्तुभयत्र । बहुवचनाद्दज्युगो रथोऽत्राभिप्रेत इति गम्यते ॥ ४ ॥
अभिप्रवर्त्तमानेषु जपेत् सहस्रसनिं वाजमभिवर्त्तस्व रथ देव प्रवह वनस्पते वीडुंगो हि भूया इति ॥ ५ ॥
T 2
For Private and Personal Use Only