________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ५. १२]
ग्टह्यसूत्रे।
अयुग्मासु तिथिषु अन्वष्ट क्यवत् पित्तभ्य एव श्राद्धं कुर्यादिति । समानकालत्वात् समानकार्यवाच्च पार्वणस्यास्य विकल्पः । एवं वा सूत्रच्छेदः । मासि मामि चैवं पिदभ्यः प्रतिमासमपरपक्षे अन्वरक्यवत् पितृभ्य एव कुर्यादित्यर्थः । अयुत् प्रतिष्ठापयेत् । श्राद्धकर्मणि सर्वमयुग्मासु सङ्ख्यासु प्रतिष्ठापयेत्. गन्धमाल्यादि सकृद्देयं त्रिः पञ्चकृत्वो वेत्यादि ॥ १० ॥
नवावरान् भोजयेत् ॥ ११ ॥
नवप्रमङ्गः प्रकृतं निवर्तयति। तेनान्वष्टक्ये नवावरान् भोजयेत्रियमेन ॥ ११ ॥
अयुजो वा ॥ १२॥
अशनी प्रागप्ययुजो भोजयेत् सप्त पञ्च त्रीने वा। मतपक्षे एक स्वैक दूतरयोस्त्रयस्त्रयः. पञ्चपक्षे एकस्य त्रय इतरयोरेकैकः । इदं चान्वष्ट क्य एव ॥ १२॥
युग्मान् वृद्धिपूर्त्तषु ॥ १३ ॥
'पुंसवनसीमन्तोन्नयनचौलकर्मापनयनविवाहा इति पञ्चान्याधेयादीनि च श्रौतानि वृद्धिश्राद्धस्य विषयः' इत्येके। 'अन्ये षोडश संस्काराः श्रवणकर्मादयश्च श्रौतानि च' इत्याहुः । 'अनिष्ट्वा तु पिहृन् श्राद्धे वैदिकं कर्म नारभेद्' इति स्मृतेः। वापोकूपतडागारामा
For Private and Personal Use Only