________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३४
[२.५. ८ ]
1
पात्रयोः पितृशब्दस्य स्थाने पितामहप्रपितामहशब्दा बहुवचनान्तैौ वक्तव्याविति । एतदयुकं । समानप्रकरणे प्रकृतिविक तिभावा नास्तीति ज्ञापितमेतद्भाव्यकारेण 'रात्र्यापदेनेति तु प्रणयेद्' इत्यत्र । तेन त्रिष्वपि पितृशब्द एव प्रयोज्य इति सिद्धं । यथा तत्र कथञ्चिगाण्या लक्षणया वान्यथा वा चीनाह तथैवात्रापि मातृरभिदध्यात् । तेनाहो न कार्यः । अथ तत्रोत्तरयोः पात्रयोरूहेोऽभ्युपगम्यते। तर्हि शुन्धन्तां पितर इत्यत्र त्रयाणां वचनमपार्थकं स्यात् तस्मात् पितृशब्द एव सर्वदा प्रयोज्य इति सिद्धं । शुन्धन्तां पितर इत्यत्र तु विभक्तिमात्रं समर्थ. प्रकृतिस्तु anta तेन तस्या ऊहः कार्यः । 'शुन्धन्तां मातरः शुन्धन्तां पितामह्यः शुन्धन्तां प्रपितामह्य इत्येतत्तेऽसौ ये च त्वा' इत्यत्र यदि द्वे मातरौ स्यातां पितामह प्रपितामहो वा तदा श्रमावित्यत्र द्वयोरपि नामनी ब्रूयात् । यदा बह्यस्तदा बहीनामपि नामानि ब्रूयात् । तेशब्दस्य स्थाने द्वे मातरौ चेदामित्यहः । बह्यश्वेद इत्यूहः । ये शब्दस्य केचिदूहेन स्त्रीलिङ्गं कुर्वन्ति तद्विचायें । एतते तत थे च त्वामचान्वित्यस्यायमर्थः । हे तत एतत्पिण्डरूपं अन्नं तुभ्यं. ये चान्येऽत्र त्वामनुयन्ति तेभ्यश्चेत्यर्थः । अनुयायिन यदि स्त्रिय एव स्युः तदोहा युज्यते । यदि पुमांस एव पुमांसश्च स्त्रियश्च वा तदा न युज्यते पुमान् स्त्रिया इति पुंस एकशेषात् । श्राचार्येण युक्तं । 'पुंवन्मिथुने' इति [ ० श्र० ] । 'अनुयायिनश्च पुमांसश्च स्त्रियश्चेति प्रतिभाति' इति बौधायनवचनात् । इत्थं हि तेन पिण्डदाने पठितो मन्त्रः । एतते ततामो ये ते मातामहा ये त श्राचार्याी ये ते सखायो य ते
याश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
•
For Private and Personal Use Only