________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ५.२] रह्यसूत्रे।
२९ अपरेधुरन्वष्टक्यं ॥ १ ॥ अपरस्मिन्नहनि नवम्यामन्वष्टक्यं नाम कर्म कार्यमित्यर्थः ॥ १ ॥
तस्यैव मांसस्य प्रकल्प्य दक्षिणाप्रवणेऽग्निमुपसमाधाय परिश्रित्योत्तरतः परिश्रितस्य दारं कृत्वा समलं बर्हिस्त्रिरपसलैरविधून्वन परिस्तीर्य हवींष्यासादयेदोदनं कसरं पायसं दधिमन्यान् मधुमन्यांश्च ॥ २॥
योऽष्टम्यां पश्ः कृतः तस्यैव मांस ब्राह्मणभोजनार्थ प्रकल्प्य संस्कृत्येत्यर्थः। भोजनार्थत्वं शास्त्रान्तरादवगतं। दक्षिणाप्रवण इति प्राक्प्रवणनिवृत्त्यर्थं । उपसमाधायेति व्याख्यातं । अमितिरस्करण्यादिभिः परिश्रित्योत्तरतो दारं करोति । पुनः परिश्रितस्येतिवचनं परिश्रयणस्यानित्यत्वज्ञापनार्थे। अचापि पिण्डपित्यज्ञकल्पोऽस्ति तत्र विशेषमाह। उभी परिस्तोर्यत्यस्मिन् काले समूलं बहिर्टहोत्वा अपसलैरप्रदक्षिणं अविधून्वन्नकम्पयस्त्रिः परिस्तुणीयात् । प्रासादयेदभिघार्य स्थालोपाकमित्यस्मिन् काले एतानि पञ्चामादयेत् । एषां नित्ये श्रपणं कार्य ग्टह्यकर्मणि सर्वत्र चरूणां नित्येऽनावेव श्रपणं कार्य न लौकिके. अन्यत्र प्रतिषेधात् । श्रपयित्वैककपालं चेत्यत्र श्रपयित्वेतिवचनस्य चरुवर्जितानां धानादीनां नित्यामिश्रपणनिषेधपरत्वेनापि मम्भवात् ।
सकवो दधिमिश्रास्तु दधिमन्याः प्रकीर्तिताः । मधमन्थाः प्रकीर्यन्ते मधुमिश्रास्तु मकवः ॥ ..
For Private and Personal Use Only