________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३०
Acharya Shri Kailassagarsuri Gyanmandir
कायनीये
[२. ४.१६]
कार्यः इत्येतत् प्रदर्शितं भवति । सर्वत्र च पृथग्घोमे स्विष्टकृदपि पृथक्कार्य.. पृथग्घोमे हि श्रवदानानां सप्त स्थालीपाकस्य च सप्त । ततः सोविष्टकृती पञ्चदशी स्यात् । महपचे त्वष्टमी भवति । एवं पृथग्धामनिवृत्त्यर्थमष्टमोग्रहणं वेदितव्यं ॥ १५ ॥
ब्राह्मणान् भोजयेदित्युक्तं ॥ १६ ॥
॥ ४ ॥
ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयतेति यदुक्तं तदिहापि कार्यमित्यर्थः । एतदुकं भवति । होमं समाप्य ब्राह्मणपच्छीचाद्याच्छादनान्तं कृत्वा भोजनार्थादन्नादुद्धृत्य घृताक्तं कृत्वा पा होमं कृत्वा भुक्तवत्स्वनाचान्तेषु पिण्डान् दत्त्वा स्वस्त्ययनं वाचयित्वा श्राद्धशेषं समापयेदिति । अथवा ब्राह्मणान् भोजयेदिदमनन्तरे कर्मणोत्युक्तं । यचेोक्तं पूर्वेद्युः कर्म तत्र च भोजयेदित्युक्तं द्रष्टव्यमित्यर्थः । इतिशब्देोऽन्नभोजनपरामर्शो । इदमष्टम्यां भोजनं श्राद्धमित्युपदेशः । शास्त्रान्तरे च दृश्यते तस्माच्छ्राद्धमिति सिद्धं ॥ १६ ॥
इति द्वितीये चतुर्थी कण्डिका ॥ ० ॥
For Private and Personal Use Only